|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.152. अध्यायः 152
Mahabharata - Vana Parva - Chapter Topics
हनुमता भीमाय समुद्रतरणकालिकपृथुतरनिजरूपप्रदर्शनपूर्वकं चतुर्वर्णधर्मनिरूपणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
भीमसेन उवाच। 3-152-0x(2276)(21689)
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन।
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥ 3-152-1(21690)
वैशम्पायन उवाच। 3-152-2x(2277)
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः।
तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥ 3-152-2(21691)
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः।
`तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने' ॥ 3-152-3(21692)
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः।
सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः ॥ 3-152-4(21693)
गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः।
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ॥ 3-152-5(21694)
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः।
दीर्घं लाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥ 3-152-6(21695)
तद्रूपं महदालक्ष्यभ्रातुः कौरवनन्दनः।
विसिष्मिये तदा भीमो जहृषे च पुनः पुनः ॥ 3-152-7(21696)
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्।
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥ 3-152-8(21697)
आबभाषे च हनुमान्भीमसेनं स्मयन्निव।
एतावदिह शक्तस्त्वं द्रुष्टुं रूपं ममानघ ॥ 3-152-9(21698)
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम्।
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥ 3-152-10(21699)
वैशम्पायन उवाच। 3-152-11x(2278)
तदद्भुतं महारौद्रं विन्ध्यपर्वतसन्निभम्।
दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः ॥ 3-152-11(21700)
प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः।
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥ 3-152-12(21701)
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो।
संहरस्व महावीर्य स्वयमात्मानमात्मना ॥ 3-152-13(21702)
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम्।
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥ 3-152-14(21703)
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै।
यद्रामस्त्वयि पार्श्वश्थे स्वयं रावणमभ्यगात् ॥ 3-152-15(21704)
त्वमेव शक्तस्तां लङ्कां सयोधां सहरावणाम्।
स्वबाहुबलमाश्रित् विनाशयितुमञ्जसा ॥ 3-152-16(21705)
न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते।
न चैव तव पर्याप्तो रावयणः सगणो युधि ॥ 3-152-17(21706)
एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः।
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥ 3-152-18(21707)
एवमेतन्महाबाहो यथा वदसि भारत।
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ॥ 3-152-19(21708)
मया तु निहते तस्मिन्रावणे लोककण्टके।
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ॥ 3-152-20(21709)
तेन वीरेण तं हत्वा सगणं राक्षसाधमम्।
आनीता स्वपुरं सीता कीर्तिश्च स्थापिता नृषु ॥ 3-152-21(21710)
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः।
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥ 3-152-22(21711)
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते।
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥ 3-152-23(21712)
न च ते तरसा कार्यः कुसुमापचयः स्वयम्।
दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥ 3-152-24(21713)
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ।
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ॥ 3-152-25(21714)
मा तात साहसं कार्षीः स्वधर्मं परिपालय।
स्वधर्मस्थापनं धर्मं बुध्यस्वागमयस्व च ॥ 3-152-26(21715)
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च।
धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ॥ 3-152-27(21716)
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः।
स विज्ञेयो विभागेन यत्रमुह्यन्त्यबुद्धयः ॥ 3-152-28(21717)
आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ 3-152-29(21718)
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः।
बृहस्पत्युशनःप्रोक्तैर्नयैर्धार्यन्ति मानवाः ॥ 3-152-20(21719)
बल्याकरवणिज्याभिः कृष्यर्थैर्योनिपोषणैः।
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥ 3-152-31(21720)
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम्।
ताभिः सम्यक्प्रवृत्ताभिर्लोकयात्रा विधीयते ॥ 3-152-32(21721)
सा चेद्धर्मकृता न स्यात्रयीधर्ममृते भुवि।
दण्डनीतिमृतेचापि निर्मर्यादमिदं भवेत् ॥ 3-152-33(21722)
वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः।
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥ 3-152-34(21723)
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णकः।
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥ 3-152-35(21724)
याजनाध्यापने चोभे ब्राह्मणानां परिग्रहः।
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ॥ 3-152-36(21725)
शुश्रूषा च द्विजातीनां शूद्राणआं धर्म उच्यते।
भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिताः ॥ 3-152-37(21726)
क्षत्रधर्मोऽत्रकौन्तेय तव धर्मोऽत्र रक्षणम्।
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥ 3-152-38(21727)
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः।
आस्थितः शास्तिदण्डेन व्यसनी परिभूयते ॥ 3-152-39(21728)
निग्रहानुग्रहैः सम्यग्यदा नेता प्रवर्तते।
तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः ॥ 3-152-40(21729)
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च।
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥ 3-152-41(21730)
राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः।
निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम् ॥ 3-152-42(21731)
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च।
साधनीयानि कार्याणि समासव्यासयोगतः ॥ 3-152-43(21732)
मन्त्रमूला नयाः सर्वेचाराश्च भरतर्षभ।
सुमन्त्रितनयैः सद्भिस्तद्विधैः सह मन्त्रयेत् ॥ 3-152-44(21733)
स्त्रिया मूढेन बालेन लुब्धेन लघुनाऽपि वा।
न मन्त्रयीत गुह्यानि येषु चास्पनदलक्षणम् ॥ 3-152-45(21734)
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत्।
स्निग्धैश्च नीतिविन्यासैर्मूर्खान्सर्वत्र वर्जयेत् ॥ 3-152-46(21735)
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्।
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ॥ 3-152-47(21736)
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा।
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥ 3-152-48(21737)
बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम्।
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥ 3-152-49(21738)
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते।
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ 3-152-50(21739)
एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः।
तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥ 3-152-51(21740)
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्।
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ॥ 3-152-52(21741)
`द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम्'।
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ॥ 3-152-53(21742)
सम्यक्प्रणीतदण्डा हि कामद्वेपविवर्जिताः।
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकतां ॥ 3-152-54(21743)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-152-5 गिरिश्च विन्ध्यगिरिरिव। इवार्थे चः ॥ 3-152-17 पर्याप्तः समर्थः ॥ 3-152-22 अरिष्टं निर्विघ्नम् ॥ 3-152-24 पुरुषेण मर्त्येन ॥ 3-152-26 आगमयस्व मात्वरिष्ठाः ॥ 3-152-28 दुर्जनवधोऽधर्मोपि धर्मएव। परोपघातकं सत्यं धर्मोपि अधर्मएव ॥ 3-152-30 यज्ञैर्देवानां नीत्या मनुष्याणां च स्थितिरित्यर्थः ॥ 3-152-31 वार्ता जीविकार्थावृत्तिः ॥ 3-152-32 साच क्रमेण ब्राह्मणस्य त्रयीयाजनाध्यापनादिः। वैश्यस् वार्तापण्यादिः। क्षत्रियस्य दण्डादिः ॥ 3-152-33 सा लोकयात्रा ॥ 3-152-37 गुरौ त्रिवर्णे वासितं वासो येषां ते ॥ 3-152-39 आस्थितोऽनुगृहीतः ॥ 3-152-41 स्थानं सिद्धसंरक्षणम् ॥ 3-152-48 स्वेभ्यश्चारेभ्यः परेभ्य उत्कोचादिना लोभितेभ्यः ॥ 3-152-49 बुद्ध्या जीवनाशया।प्रतिपन्नेषु शरणागतेषु ॥ 3-152-51 घोरो धर्मो राजधर्मः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|